|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.117. अध्यायः 117
Mahabharata - Drona Parva - Chapter Topics
सात्यकिपराक्रमवर्णनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-117-0x(4559)(49661)
काल्यमानेषु सैन्येषु शैनेयेन ततस्ततः।
भारद्वाजः शरव्रातैर्मर्मभिद्भिरवाकिरत्॥ 7-117-1(49662)
स सम्प्रहारस्तुमुलो द्रोणसात्वतयोरभूत्।
पश्यतां सर्वसैन्यानां बलिवासवयोरिव॥ 7-117-2(49663)
ततो द्रोणः शिनेः पौत्रं चित्रैः सर्वायसैः शरैः।
त्रिभिराशीविपाकारैर्ललाटे समविध्यत॥ 7-117-3(49664)
तैर्ललाटार्पितैर्बाणैर्युयुधानस्त्वजिह्मगैः।
व्यरोचत महाराज त्रिशृङ्ग इव पर्वतः॥ 7-117-4(49665)
ततोऽस्य बाणानपरानिन्द्राशनिसमस्वनान्।
भारद्वाजोऽन्तरप्रेक्षी प्रेषयामास संयुगे॥ 7-117-5(49666)
तान्द्रोणचापनिर्मुक्तान्दाशार्हः पततः शरान्।
द्वाभ्यांद्वाभ्यां सुपुङ्खाभ्यां चिच्छेद परमास्त्रवित्॥ 7-117-6(49667)
तामस्य लघुतां द्रोणः समवेक्ष्य विशाम्पते।
प्रहस्य सहसाऽविध्यत्त्रिंशतां शिनिपुङ्गवम्॥ 7-117-7(49668)
पुनः पञ्चशतेषूणां शितेन च समार्पयत्।
लघुतां युयुधानस्य लाघवेन विशेषयन्॥ 7-117-8(49669)
समुत्पतन्ति वल्मीकाद्यथा क्रुद्धा महोरगाः।
तथा द्रोणरथाद्राजन्नापतन्ति तनुच्छिदः॥ 7-117-9(49670)
तथैव युयुधानेन सृष्टाः सतसहस्रशः।
अवाकिरन्द्रोणरथं शरा रुधिरभोजनाः॥ 7-117-10(49671)
लाघवाद्दिजमुख्यस्य सात्वतस्य च मारिष।
विशेषं नाध्यगच्छाम समावास्तां नरर्षभौ॥ 7-117-11(49672)
सात्यकिस्तु ततो द्रोणं नवभिर्नतपर्वभिः।
आजघान भृशं क्रुद्धो ध्वजं च निशितैः शरैः॥ 7-117-12(49673)
सारथिं च शतेनैव भारद्वाजस्य पश्यतः।
लाघवं युयुधानस्य दृष्ट्वा द्रोणो महारथः॥ 7-117-13(49674)
सप्तत्या सारथिं विद्व्वा तुरङ्गांश्च त्रिभिस्त्रिभिः।
ध्वजमेकेन चिच्छेद माधवस्य रथे स्थितम्॥ 7-117-14(49675)
अथापरेण भल्लेन हेमपुङ्खेन पत्रिणा।
धनुश्चिच्छेद समरे माधवस्य महात्मनः॥ 7-117-15(49676)
सात्यकिस्तु ततः क्रुद्धो धनुस्त्यक्त्वा महारथः।
गदां जग्राह महतीं भारद्वाजाय चाक्षिपत्॥ 7-117-16(49677)
तामापतन्तीं सहसा पट्टबद्धामयस्मयीम्।
न्यवारयच्छरैर्द्रोणो बहुभिर्बहुरूपिभिः॥ 7-117-17(49678)
अथान्यद्धनुरादाय सात्यकिः सत्यविक्रमः।
विव्याध बहुभिर्वीरं भारद्वाजं शिलाशितैः॥ 7-117-18(49679)
स विद्वा समरे द्रोणं सिंहनादममुञ्चत।
तं वै न मृमषे द्रोणः सिंहनादं महात्मनः॥ 7-117-19(49680)
ततः शक्तिं रणे द्रोणो रुक्मदण्डामयस्मयीम्।
तरसा प्रेषयामास माधवस्य रथं प्रति॥ 7-117-20(49681)
अनासाद्य तु शैनेयं सा शक्तिः कालसन्निभा।
भित्त्वा रथं जगामोग्ना धरणीं दारुणस्वना॥ 7-117-21(49682)
ततो द्रोणं शिनेः पौत्रो राजन्विव्याध पत्रिणा।
दक्षिणं भुजमासाद्य पीडयन्भरतर्षभ॥ 7-117-22(49683)
द्रोणोऽपि समरे राजन्माधवस्य महद्धनुः।
अर्धचन्द्रेण चिच्छेद रथशक्त्या च सारथिम्॥ 7-117-23(49684)
मुमोह सारथिस्तस्य रथशक्त्या समाहतः।
स रथोपस्थमासाद्य मुहूर्तं सन्न्यषीदत॥ 7-117-24(49685)
चकार सात्यकी राजंस्तत्र कर्मातिमानुषम्।
अयोधयच्च यद्द्रोणं रश्मीञ्जग्राह च स्वयम्॥ 7-117-25(49686)
ततः शरशतेनैव युयुधानो महारथः।
अविध्यद्ब्राह्मणं सङ्ख्ये हृष्टरूपो विशाम्पते॥ 7-117-26(49687)
तस्य द्रोणः शरान्पञ्च प्रेषयामास भारत।
ते घोराः कवचं भित्त्वा पपुः शोणितमाहवे॥ 7-117-27(49688)
निर्विद्धस्तु शरैर्घोरैरक्रुद्ध्यत्सात्यकिर्भृशम्।
सायकान्व्यसृजच्चापि वीरो रुक्मरथं प्रति॥ 7-117-28(49689)
ततो द्रोणस्य यन्तारं निपात्यैकेषुणा भुवि।
अश्वान्व्यद्रावयद्बाणैर्हतसूतांस्ततस्ततः॥ 7-117-29(49690)
स रथः प्रद्रुतः सङ्ख्ये मण्डलानि सहस्रशः।
चकार राजतो राजन्भ्राजमान इवांशुमान्॥ 7-117-30(49691)
अभिद्रवत गृह्णीत हयान्द्रोणस्य धावत।
इति स्म चुक्रुशुः सर्वे राजपुत्राः सराजकाः॥ 7-117-31(49692)
ते सात्यकिमपास्याशु राजन्युधि महारथाः।
यतो द्रोणस्ततः सर्वे सहसा समुपाद्रवन्॥ 7-117-32(49693)
तान्दृष्ट्वा प्रद्रुतान्सङ्ख्ये सात्वतेन शरार्दितान्।
प्रभग्नं पुनरेवासीत्तव सैन्यं समाकुलम्॥ 7-117-33(49694)
व्यूहस्यैव पुनर्द्वारं गत्वा द्रोणो व्यवस्थितः।
वातायमानैस्तैरश्वैर्नीतो वृष्णिशरार्दितैः॥ 7-117-34(49695)
पाण्डुपाञ्चालसम्भिन्नं व्यूहमालोक्य वीर्यवान्।
शैनेये नाकरोद्यत्नं व्यूहमेवाभ्यरक्षत॥ 7-117-35(49696)
निवार्य पाण़्डुपाञ्चालान्द्रोणाग्निः प्रदहन्निव।
तस्थौ क्रोधेध्मसन्दीप्तः कालसूर्य इवोद्यतः॥ ॥ 7-117-36(49697)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे सप्तदशाधिकशततमोऽध्यायः॥ 117 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-117-23 रथशक्त्या केतकपत्राकारमुखया शक्त्या॥ 5-117-117 सप्तदशाधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|